८३२ ` = संक्षिप्त बहावैवर्तपुराण *
७७999985 89 9४959899 99999989 99 5 88 # 6 # 65% 8 # ५
संततं सर्वतः पातु परो नारायणः स्वयम् । इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम्॥
मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च । अश्वमेधसहस्राणि वाजपेयशतानि च।
कलां नार्हन्ति तान्येव कवच्नस्यैव धारणात् ॥
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दमैः । स्त्रात्वा तं च नपस्कृत्य कवचं धारयेत् सुधीः ॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेतन्नर: । यदि स्यात् सिद्धकवचो विष्णुरेव भवेद् द्विज ॥
इति श्रीग्रह्मवैवते ब्रह्माण्डपावनं श्रीकृष्णकवर्च सम्पूर्णम् ।
(ब्रह्मखण्ड १९। ८--३८)
न
त्रैलोक्यविजयं नाम श्रीकृष्णकवचम्
महादेव उवाच
त्रैलोक्यविजयवस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवो राधेश्वरः स्वयम्॥
त्रैलोक्यविजयप्रामौ विनियोगः प्रकीर्तितः । परात्परं च कवचं त्रिषु लोकेषु दुर्लभम्॥
प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा । पायात् कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥
कृष्णेति पातु नेत्रे च कुष्णस्वाहेति तारकम् । हरये नम इत्येवं भ्रूलतां पातु मे सदा॥
ॐ गोविन्दाय स्वाहेति नासिकां पातु संततम् । गोपालाय नमो गण्डौ पातु मे सर्वतः सदा॥
ॐ नमो गोपाङ्खनेशाय कर्णौ पातु सदा मम । ॐ कृष्णाय नमः शश्वत् पातु मेऽधरयुग्मकम्॥
ॐ गोविन्दाय स्वाहेति दन्तालीं मे सदावतु । ॐ कृष्णाय दन्तरन्धं दन्तोर्ध्वं क्लीं सदावतु ॥
ॐ श्रीकृष्णाय स्वाहेति जिद्धिकां पातु मे सदा । राधेश्वराय स्वाहेति तालुकं पातु मे सदा॥
राधिकेशाय स्वाहेति कण्ठं पातु सदा मम । नमो गोपाङ्गनेशाय वक्षः पातु सदा मम॥
ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम । नमः किशोरवेधाय स्वाहा पृष्ठ सदावतु ॥
उदरं पातु मे नित्यं मुकुन्दाय नमः सदा । ॐ हीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥
ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम । ॐ हूं भगवते स्वाहा नखरं पातु मे सदा॥
ॐ नपो नारायणायेति नखरन्धं सदावतु । ॐ ह्रीं हीं पद्यनाभाय नाभिं पातु सदा मम॥
ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा । ॐ गोपीरमणाय स्वाहा नित्यं पातु मे सदा ॥
ॐ गोपीरमणनाथाय पादौ पातु सदा मम । ॐ हीं श्री रसिकेशाय स्वाहा सर्वं सदावतु॥
ॐ केशवाय स्वाहेति मम केशान् सदावतु । नमः कृष्णाय स्वाहेति ब्रह्मरन्धं सदावतु ॥
ॐ माधवाय स्वाहेति लोमानि मे सदावतु । ॐ हीं श्रीं रसिकेशाय स्वाहा सवं सदावतु ॥
परिपूर्णतपः कृष्णः प्राच्यां मां सर्वदावतु । स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥
पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदावतु । नैर्त्यां पातु मां कृष्ण: पश्चिमे पातु मां हरिः॥
गोविन्द: पातु मां शश्वद् वायव्यां दिशि नित्यशाः । उत्ते पां सदा पातु रसिकानां शिरोमणिः॥
एेशान्यां मां सदा पातु वृन्दावनविहारकृत् । वृन्दावतीप्राणनाथः पातु मामूर्वदेशतः॥
सदैव माधवः पातु वलिहारी महाबलः । जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा॥
स्वप्रे जागरणे शश्चत् पातु मां माधव: सदा । सर्वान्तरात्मा निर्लिप्त: पातु मां सर्वतो विभुः॥
इति ते कथितं वत्स सर्वमन््रौघविग्रहम् । त्रैलोक्यविजयं नाम कवचं परमाद्धुतम्॥
मया श्रुतं कृष्णवक्त्रात् प्रवक्तव्यं न कस्यचित् । गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः॥
कण्टे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः । स॒ च भक्तो वसेद् यत्र लक्ष्मीर्वाणी वसेत्ततः ॥