८३४ * संक्षिम ब्रह्मवैवर्तपुराण *
32.2 2०००० ०० ००० ०००० ०० ००००० 0 ००००० ००००० ०००००]
2! 5. श्रीसाध्ास्तोत्राणि , ~ सं: 9 ऋ ५
~] श्रीराधायाः परीहारस्तोत्रम् (-
त्वं देवी जगतां माता विष्णुमाया सनातनी । कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा॥
कृष्णप्रेममयी शक्ति: कृष्णसौभाग्वरूपिणी । कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रद ॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम । पूजितासि मया सा च या श्रीकृष्णोन पूजिता ॥
कृष्णवक्षसि या राधा सवंसौभाग्यसंयुता । रासे रसेश्वरीरूपा यृन्दा वृन्दावने वने॥
कृष्णप्रिया च गोलोके तुलसी कानने तु या । चम्पावती कृष्णसंगे क्रीडा चम्पककानने॥
चन्द्रावली चन्द्रवने शतशूङ्के सतीति च। विरजादर्पहन्त्री च विरजातटकानने ॥
पदयावती पवने कृष्णा कृष्णसरोवरे । भद्रा कुञ्जकुर्टीरि च काम्या च काम्यके वने॥
वैकुण्ठे च महालक्ष्मर्वाणी नारायणोरसि । क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीईरिप्रिया॥
सर्वस्वर्गे स्वर्गलक्ष्मीदेवदु:ःखविनाशिनी । सनातनी विष्णुमाया दुर्गा शंकरवक्षसि॥
सावित्री वेदमाता च कलया ब्रह्मवक्षसि । कलया धर्मपत्नी त्वं नरनारायणप्रसूः॥
कलया तुलसी त्वं च गङ्गा भुवनपावनी । लोमकूपोद्धवा गोप्यः कलांशा रोहिणी रतिः ॥
कलाकलांशरूपा च शतरूपा शची दितिः । अदितिर्देवमाता च त्वत्कलांशा इरिप्रिया॥
देव्यश्च मुनिपल्यश्च त्वत्कलाकलया शुभे | कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते॥
एवं कृत्वा परीहार स्तुत्वा च कवचं पठेत् | पुरा कृतं स्तोत्रमेतद् भक्तिदास्वप्रदं शुभम्॥
ति श्रीब्रह्मवैवर्ते श्रीराधाया: परीहारस्तोत्रं सम्पूर्णम् ।
(प्रकृतिखण्ड ५५॥ ४४--५७ )
हजीए अफसर ए+-+>०नूर
श्रीकृष्णकृतं श्रीराधास्तोत्रम्
श्रीकृष्ण उवाच
एवमेव प्रियोऽहं ते प्रमोदश्चैव ते पयि । सुव्यक्तमद्य कापट्यमचन॑ ते वरानने॥
है कृष्ण त्वं मम प्राणा जीवात्येति च संततम् । ब्रूषे नित्यं तु यत् प्रेम्णा साम्प्रतं तद् गतं द्रुतम् ॥
अस्माकं वचनं सत्यं यद् ब्रवीमीति तद् धुवम् । पद्षप्राणाधिदेवी त्वं राधा प्राणाधिकेति मे॥
शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना । विनाधिष्ठातृदेवीं च को वा कुत्र च जीवति॥
प्रहाविष्णोश्च माता त्वं पूलप्रकृतिरीश्वरी। सगुणा त्वं च कलया निर्गुणा स्वयमेव तु॥
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा। भक्तानां रुचिवैचित्र्यान्नानामूर्तीश्च विभ्रती ॥
महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः । पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा॥
तुलसी पुण्यरूपा च गङ्खा भुवनपावनी | ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा॥
गोलोके राधिका त्वं च सर्वगोपालकेश्चरी। त्वया विनाहं निर्जीवो हाशक्तः सर्वकर्मसु ॥
शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया चिना । वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह॥
नारायणस्वया लक्ष्या जगत्पाता जगत्पतिः । फलं ददाति यज्ञश्च त्वया दक्षिणया सह॥
विभर्ति सृष्टि शेषश्च त्वां कृत्वा मस्तके भुवम् । विभर्ति गड्जारूपां त्वां मूर्धि गङ्खाधरः शिवः॥
शक्तिमच्य जगत् सर्वं शवरूपं त्वया विना । वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ॥